स्वयङ्कृतप्रसादस्य तस्याह्नो भानुमानिव ।
समयावधिमप्राप्यय नान्तायालं भवानपि ॥

मल्लिनाथः स्वयमिति ॥ किंच अह्नो भानुमानिव स्वयं कृतः प्रसादोऽनुग्रहः, प्रकाशश्च यस्य तस्य चैद्यस्यान्ताय समयावधिं नियतकालावसानमप्राप्य भवानपि नालं शक्तो न । तथा च वृथापकीर्तिरेव । अन्यन्न किंचित्फलं स्यादिति भावः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्व ङ्कृ प्र सा स्य
स्या ह्नो भा नु मा नि
या धि प्रा प्य
ना न्ता या लं वा पि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.