मल्लिनाथः
तीक्ष्णेति ॥ सतः सत्पुरुषस्य बुद्धिस्तीक्ष्णा निशिता स्यादिति विद्धीत्यध्याहारः । एवमुत्तरत्रापि । तथाप्यरुस्तुदतीत्यरुन्तुदा शस्त्रवन्मर्मच्छेदिनी न भवेत् । अहिंसयैव परं पीडयेदित्यर्थः । कर्म व्यापारः प्रतापवत्तेजस्वि भयदं स्यात्,तथापि शान्तं स्यात् । न तु सिंहादिवद्धिस्रं भवेदित्यर्थः । मनश्चित्तं सोष्म अभिमानोष्णं स्यात्तथापि उपतापयतीत्युपतापि । अग्यादिवत् परसन्तापि न स्यात् । वाग्मिनो वक्तुर्वागेका एकरूपा स्यात् । वाग्मी सत्यमेव वदेदित्यर्थः । अतः सत्यसन्धस्य प्रतिश्रुतार्थहानिरनर्हेति भावः । अत्र प्रकृताया वाचोऽप्रकृतानां बुद्धिकर्ममनसां च तुल्यधर्मादौपम्यावगमाद्दीपकालंकारः । `प्रकृताप्रकृतानां च साम्ये तु तुल्यधर्मतः । औपम्यं गम्यते यत्र दीपकं तन्निगद्यते ॥` इति लक्षणात् । बुद्ध्यादीनां शस्त्रादिव्यतिरेको व्यज्यते
छन्दः
उपगीतिः []
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ |
|---|---|---|---|---|---|---|---|---|
| ती | क्ष्णा | ना | रु | न्तु | दा | बु | ||
| द्धिः | क | र्म | शा | न्तं | प्र | ता | प | वत् |
| नो | प | ता | पि | म | नः | सो | ष | |
| म | वा | गे | का | वा | ग्मि | नः | स | तः |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.