Loading data... On slow networks this could take a few minutes.
100%

उत्तिष्ठमानस्तु परो नोपेक्ष्यः पत्यमिच्छता ।
समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥

मल्लिनाथः उत्तिष्ठमान इति ॥ उत्तिष्ठमानो वर्धमानः। `उदोऽनूर्ध्वकर्मणि` (अष्टाध्यायी १.३.२४ ) इत्यात्मनेपदम् । परः शत्रुः पथोऽनपेतं पथ्यं हितमारोग्यं चेच्छता । पुंसेति शेषः । नोपेक्ष्यो नौदासीन्येन द्रष्टव्यः। कुतः। हि यस्माद्वर्त्स्यन्तौ वर्धिष्यमाणौ। `लृटः सद्वा`&#३२; (अष्टाध्यायी ३.३.१४ ) इति सदादेशे `वृद्भ्यः स्यसनोः` (अष्टाध्यायी १.३.९२ ) इति विभाषया परस्मैपदम् । `न वृद्भ्यश्चतुर्भ्यः` (अष्टाध्यायी ७.२.५९ ) इतीडभावः । आमयो व्याधिः । `रोगव्याधिगदामयाः` इत्यमरः । स शत्रुश्च शिष्टैर्नीतिज्ञैः समौ तुल्यवृत्ती आम्नाताव्याख्यातौ । `अल्पीयसोऽप्यरेवृद्धिर्महानर्थाय रोगवत् । अतस्तस्यानुपेक्ष्यत्वादुभयानुसृतिः कुतः` इति भावः । उपमालंकारः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्ति ष्ठ मा स्तु रो
नो पे क्ष्यः त्य मि च्छ ता
मौ हि शि ष्टै रा म्ना तौ
र्त्स्य न्ता वा यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.