Loading data... On slow networks this could take a few minutes.
100%

सहिष्ये शतमागांसि सूनोस्त इति यत्वया ।
प्रतीक्ष्यन्तत्प्रतीक्ष्यायै पितृष्वस्रे प्रतिश्रुतम् ॥

मल्लिनाथः सहिष्य इति ॥ प्रतीक्ष्यायै पूज्यायै । `पूज्यः प्रतीक्ष्यः` इत्यमरः । पितृष्वस्रे पितृभगिन्यै । `विभाषा स्वसृपत्योः` (अष्टाध्यायी ६.३.२४ ) इति विकल्पादलुगभावः । `मातृपितृभ्यां स्वसा` (८३३।८४) इति षत्वम् । ते तव सूनोः शतमागांस्यपराधान् । `आगोऽपराधो मन्तुश्च` इत्यमरः । सहिष्ये सोढाहे इति यत्त्वया प्रतिश्रुतं प्रतिज्ञातं तत्प्रतीक्ष्यं प्रतिपालनीयम् । अन्यथा महादोषस्मरणादिति भावः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हि ष्ये मा गां सि
सू नो स्त ति त्व या
प्र ती क्ष्य न्त त्प्र ती क्ष्या यै
पि तृ ष्व स्रे प्र ति श्रु तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.