अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति ।
शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ॥

मल्लिनाथः अमृतमिति ॥ अमृतं नाम सन्तो विद्वांसः मन्त्रा एव जिह्वा येषां तेषु मन्त्रजिह्वेष्वग्निषु । `मन्त्रजिह्वः सप्तजिह्वः सुजिह्वो हव्यवाहनः` इति वैजयन्ती । यत्पुरोडाशादिकं जुह्वति, तदेवेति शेषः । यत्तदोर्नित्यसंबन्धात् । मन्दर एव क्षुब्धो मन्थनदण्डः । `क्षुब्धस्वान्त-` (अष्टाध्यायी ७.२.१८ ) इत्यादिनास्मिन्नर्थे निपातनात् सिद्धम् । तेन क्षुभितस्य मथितस्याम्भोधेवर्णना शोभैवालंकार एव । अब्धिमन्थनेनामृतमुत्पादितमिति यतः कीर्तिमात्रम्, अतो हुतमेवामृतमिति भावः । वाक्यार्थयोर्हेतुहेतुमद्भावाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मृ तं ना त्स न्तो
न्त्र जि ह्वे षु जु ह्व ति
शो भै न्द क्षु ब्ध
क्षु भि ता म्भो धि र्ण ना
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.