Loading data... On slow networks this could take a few minutes.
100%

मन्यसेऽरिवधः श्रेयान्प्रीतये नाकिनामिति ।
पुरोडाशभुजामिष्टमिष्टं कर्तुमलन्तरां ॥

मल्लिनाथः मन्यस इति ॥ नाकिनां देवानां प्रीतयेऽरिवधः श्रेयान् प्रशस्ततरः । `प्रशस्यस्य श्रः` (अष्टाध्यायी ५.३.६० ) इति श्रादेशः । इति मन्यसे चेत्तर्हि पुरोडाशभुजां हविर्भोजिनाम् । अत एव नाकिनामिष्टमभीप्सितं कर्तुम् । इषेः कर्मणि क्तः । इष्टं इष्टिः । याग इति यावत् । यजेर्भावे क्तः । `वचिस्वपि-` (अष्टाध्यायी ६.१.१५ ) इत्यादिना संप्रसारणम् । अलंतरामतिपर्याप्तम् । अव्ययादामुप्रत्ययः । शत्रुवधादतिप्रियकरो याग एव, नाकिनां भुक्त्वापि शत्रुवधस्य सुकरत्वादिति भावः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्य से ऽरि धः श्रे या
न्प्री ये ना कि ना मि ति
पु रो डा भु जा मि ष्ट
मि ष्टं र्तु न्त रां
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.