मल्लिनाथः
चिरादिति ॥ बलिनः स्वयं बलवतोऽप्यरिषु विषये बलात्कारो दण्डः, चिरात् चिरकालेनापि । सद्यो मा भूदिति भावः । सिद्धये वशंवदत्वसिद्धये । भवतीति शेषः । अविमनसो विमनसः संपद्यमानाः कृता विमनीकृताः । वैमनस्यं प्रापिता इत्यर्थः । `अरुर्मनश्चक्षुश्चेतोरहोरजसा लोपश्च` (अष्टाध्यायी ५.४.५१ ) इति च्विप्रत्ययसलोपौ। `अस्य च्वॉ` (अष्टाध्यायी ७.४.३२ ) इतीकारः । शोभनं हृदयं येषां ते सुहृदो मित्राणि तु । `सुहृदुहृदो मित्रामित्रयोः` (अष्टाध्यायी ५.४.१५० ) इति निपातः । छन्दस्याभिप्रायस्यानुवृत्त्या चित्तानुरोधेनापि दुःसाध्याः । आर्जवयितुमशक्या इत्यर्थः । `अभिप्रायश्छन्द आशयः` इत्यमरः । शनैः शत्रुर्दण्डेनापि वशो भवति, मित्रं वैमनस्येन साम्नापीति भावः
छन्दः
अनुष्टुप् [८]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
|---|---|---|---|---|---|---|---|
| चि | रा | द | पि | ब | ला | त्का | रो |
| ब | लि | नः | सि | द्ध | ये | ऽरि | षु |
| छ | न्दा | नु | वृ | त्ति | दुःः | सा | ध्याः |
| सु | हृ | दो | वि | म | नी | कृ | ताः |
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.