महात्मनोऽनुगृह्णन्ति भजमानान्रिपूनपि ।
सपन्तीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगा ॥

मल्लिनाथः महात्मान इति ॥ महात्मानो नि२ग्रहानुग्रहसमर्था भजमानान् शरणागतान् रिपूनप्यनुगृह्णन्ति । किमुत बन्धूनिति भावः । अर्थान्तरं न्यस्यतिसिन्धवो महानद्यः समान एकः पतिर्यासां ताः सपत्नीः । `नित्यं सपत्यादिषु` (अष्टाध्यायी ४.१.३५ ) इति ङीप् नकारश्च । नगनिम्नगा गिरिनिर्झरिणीरब्धिं प्रापयन्ति । स्वसौभाग्यं ताभ्यः प्रयच्छन्तीति भावः । अतः परिहारेऽप्यनर्थ इति भावः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हा त्म नो ऽनु गृ ह्ण न्ति
मा ना न्रि पू पि
न्तीः प्रा न्त्य ब्धिं
सि न्ध वो नि म्न गा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.