Loading data... On slow networks this could take a few minutes.
100%

संभाव्य त्वामतिभरक्षमस्कन्धं सबान्धवः ।
सहायमध्वरधुरां धर्मराजो विवक्षते ॥

मल्लिनाथः संभाव्येति ॥ बन्धुरेव बान्धवः स धर्मराजः अतिभरस्य क्षमः स्कन्धो यस्य स तम् । समानस्कन्धमित्यर्थः । त्वां सहायं संभाव्याभिसंधाय । अध्वरस्य धुरमध्वरधुराम् । `ऋक्पूर्-` (५।४/७४) इत्यादिना समासान्तोऽच्प्रत्ययः । समासान्तानां प्रकृतिलिङ्गत्वात्तत्पुरुषे परवल्लिङ्गत्वे टाप् । विवक्षते वोढुमिच्छति । वहतेः स्वरितेतः सन्नन्ताल्लट् । तथा हि—विरोधे विश्वासघातो, बन्धुद्रोहश्च स्यातामिति भावः । विशेषणसाम्यात् प्रस्तुतयागधर्मप्रतीतेः समासोक्तिः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सं भा व्य त्वा ति
क्ष स्क न्धं बा न्ध वः
हा ध्व धु रां
र्म रा जो वि क्ष ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.