मखविघ्नाय सकलमित्थमित्युत्थाप्य राजकम् ।
हन्त जातमजातारेः प्रथमेन त्वयारिणा ॥

मल्लिनाथः मखेति ॥ इत्थमनेन प्रकारेण । `इदमस्थमुः` (अष्टाध्यायी ५.३.२४ ) इति थमुप्रत्ययः । मखविघ्नाय मखविघाताय सकलं राजकं राजसमूहम् । `गोत्रोक्ष(अष्टाध्यायी ४.२.३९ ) इत्यादिना वुञ् । उत्थाप्य क्षोभयित्वा । हन्त इति खेदे । अजातारेरजातशत्रोर्युधिष्ठिरस्य त्वया प्रथमेनारिणा जातमजनि । नपुंसके भावे क्तः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वि घ्ना
मि त्थ मि त्यु त्था प्य रा कम्
न्त जा जा ता रेः
प्र मे त्व या रि णा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.