ओमित्युक्तवतोऽथ शाङ्गिणा इति व्याहृत्य वाचं नभ-
स्तस्मिन्नुत्पतिते पुरः सुरमुनाविन्दोः श्रियं बिभ्रति ।
शत्रुणामनिश विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति
व्योम्नि भ्रकुटिच्छलेन वदने केतुशचकारास्पदम् ॥
ओमित्युक्तवतोऽथ शाङ्गिणा इति व्याहृत्य वाचं नभ-
स्तस्मिन्नुत्पतिते पुरः सुरमुनाविन्दोः श्रियं बिभ्रति ।
शत्रुणामनिश विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति
व्योम्नि भ्रकुटिच्छलेन वदने केतुशचकारास्पदम् ॥
स्तस्मिन्नुत्पतिते पुरः सुरमुनाविन्दोः श्रियं बिभ्रति ।
शत्रुणामनिश विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति
व्योम्नि भ्रकुटिच्छलेन वदने केतुशचकारास्पदम् ॥
मल्लिनाथः
ओमिति ॥ तस्मिन्सुरमुनौ नारदे इति इत्थंभूतां वाचं व्याहृत्योक्त्वा नभ उत्पतिते खमुद्गते पुरोऽग्रे इन्दोः श्रियं बिभ्रति सति । अथ मुनिवाक्यानन्तरम् ओमित्युक्तवतः तथास्त्वित्यङ्गीकृतवतः । `ओम् प्रश्नेऽङ्गीकृतौ रोषे` इति विश्वः। चेदीनां जनपदानामयं चैद्यः शिशुपालः । `वृद्धेत्कोसलाजादाञ्ञ्यङ्` (अष्टाध्यायी ४.१.१७१ ) इति ञ्यङ्प्रत्ययः । तं प्रति क्रुद्धस्य शार्ङ्गिणो वदने व्योम्नीवानिशं सर्वदा । अव्यभिचारेणेत्यर्थः । शत्रूणां विनाशस्य पिशुनः सूचकः । `चन्द्रमभ्युत्थितं केतुः क्षितीशानां विनाशकृत्` इति शास्त्रादिति भावः । केतुः उत्पातविशेषः । केतुर्द्युतौ पताकायां ग्रहोत्पातारिलक्ष्मसु` इत्यमरः । भ्रुकुटिच्छलेन भ्रूभङ्गव्याजेनास्पदं प्रतिष्ठां स्थितिं चकार । `आस्पदं प्रतिष्ठायाम्` (अष्टाध्यायी ६.१.१४६ ) इति निपातनात् सुडागमः । अनेन वाक्यार्थभूतस्य वीररससहकारिणो रौद्रस्य स्थायी क्रोधः स्वानुभावेन भृकुट्या कारणभूतोऽनुमेय इत्युक्तम् । तथा तदविनाभूतस्याङ्गिनो वीरस्य स्थायी प्रयत्नोपनेय उत्साहोऽप्युत्पन्न एवेत्यनुसंधेयम् । इन्दोः श्रियं बिभ्रतीत्यत्र मुनेरिन्दुश्रियोऽयोगात्तत्सदृशीमिति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धरूपो निदर्शनालंकारः । वदने व्योम्नीवेत्युपमा । भ्रुकुटिच्छलेन केतुरिति छलादिशब्देनासत्यत्वप्रतिपादनरूपोऽपह्नवः । तत्र शत्रुविनाशसूचके त्वपेक्षितेन्दुसान्निध्यव्योमावस्थानसंपादकत्वे निदर्शनोपमयोरपह्नवोपकारसत्वादङ्गाङ्गिभावेन संकरः । चमत्कारकारितया मङ्गलाचरणरूपतया च सर्गान्त्यश्लोकेषु श्रीशब्दप्रयोगः । यथाह भगवान् भाष्यकारः-`मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते, वीरपुरुषाण्यायुष्मत्पुरुषाणि च भवन्ति, अध्येतारश्च प्रवक्तारो भवन्ति` इति । शार्दूलविक्रीडितं वृत्तम् । `सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्` इति लक्षणात् । सर्गान्तत्वात् वृत्तभेदः । यथाह दण्डी–`सर्गैरनतिविस्तीर्णैः श्राव्यवृत्तैः सुसंधिभिः । सर्वत्र भिन्नसर्गान्तैरुपेतं लोकरञ्जकम् ॥` इति
छन्दः
उपजातिः [११]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ | १३ | १४ | १५ | १६ | १७ | १८ | १९ |
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| ओ | मि | त्यु | क्त | व | तो | ऽथ | शा | ङ्गि | णा | इ | ति | व्या | हृ | त्य | वा | चं | न | भ |
| स्त | स्मि | न्नु | त्प | ति | ते | पु | रः | सु | र | मु | ना | वि | न्दोः | श्रि | यं | बि | भ्र | ति |
| श | त्रु | णा | म | नि | श | वि | ना | श | पि | शु | नः | क्रु | द्ध | स्य | चै | द्यं | प्र | ति |
| व्यो | म्नि | भ्र | कु | टि | च्छ | ले | न | व | द | ने | के | तु | श | च | का | रा | स्प | दम् |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.