शरवर्षी महानादः स्फुरत्कार्मुककेतनः ।
नीलच्छविरसौ रेजे केशवच्छलनीरदः ॥

मल्लिनाथः शरेति ॥ शरवर्षी बाणवर्षी, नीरवर्षी च । `शरं नीरे शरो बाणे` इति विश्वः । महान्नादः सिंहनादो, गर्जितं च यस्य स महानादः । स्फुरन्ती कार्मुककेतने धनुर्ध्वजौ यस्य सः । अन्यत्रेन्द्रचापचिह्न इत्यर्थः । नीलच्छविः श्यामकान्तिः । अस्य केशवस्य छलं कपटं यस्य सः नीरदः केशवच्छलनीरदो हरिमेघोऽसौ रेजे । रणरङ्गे सर्वोत्कर्षेण दिदीपे इत्यर्थः । अत्र छलशब्देन हरित्वापह्नवेन मेघत्वारोपणाच्छलादिशब्दैरसत्यत्वप्रतिपादनरूपोऽपह्न्वालंकारः । त्रिपाद्यन्तर्गतचतुर्थपादाक्षरत्वाद्गूढचतुर्थाख्यश्चित्रविशेषः, शब्दालंकारश्चेति संकरः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्षी हा ना दः
स्फु त्का र्मु के नः
नी च्छ वि सौ रे जे
के च्छ नी दः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.