Loading data... On slow networks this could take a few minutes.
100%

न केवलं जनैस्तस्य लघुसंधायिनो धनुः ।
मण्डलीकृतमोकान्ताद्बलमैक्षि द्विषामपि ॥

मल्लिनाथः नेति ॥ लघु शीघ्रं संधत्ते यस्तस्य लघुसंधायिनस्तस्य हरेः धनुरेव केवलं एकान्तात् मण्डलीकृतं शीघ्राकर्षणान्नियमेन वलयीकृतं जनैर्नैक्षि । कर्मणि लुङ । किंतु द्विषां बलमपि मण्डलीकृतं ब्रासादेकत्र पुजीकृतमैक्षि । अत्र धनुर्बलयोः प्रकृतयोरेव तुल्यधर्मयोगात्केवलप्रकृतास्पदा तुल्ययोगिता
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
के लं नै स्त स्य
घु सं धा यि नो नुः
ण्ड ली कृ मो का न्ता
द्ब मै क्षि द्वि षा पि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.