Loading data... On slow networks this could take a few minutes.
100%

दिङ्मुखव्यापिनस्तीक्ष्णान्ह्रदिनो मर्मभेदिनः ।
चिक्षेपैकक्षणेनैव सायकानहितांश्च सः ॥

मल्लिनाथः दिगिति ॥ स हरिर्दिङ्मुखव्यापिनो दिगन्तव्यापकान् । अतितीक्ष्णानिशितान्क्रूरांश्च । ह्रादन्ते इति ह्रादिनः पक्षनादवतः, सिंहनादवतश्च । मर्मभेदिनो मर्मस्थानविदारकान् सायकानिषून् , अहितानरींश्च एकक्षणेनैव चिक्षेप निरास । अत्र सायकानामहितानां च प्रकृतानामेव तुल्यधर्मयोगादौपम्योपगमात्तुल्ययोगिताभेदः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दि ङ्मु व्या पि स्ती क्ष्णा
न्ह्र दि नो र्म भे दि नः
चि क्षे पै क्ष णे नै
सा का हि तां श्च सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.