उपैतुकामैस्तत्पारं निश्चितैर्योगिभिः परैः ।
देहत्यागकृतोद्योगैरदृश्यत परः पुमान् ॥

मल्लिनाथः उपैत्विति ॥ एवंभूतः परः पुमान्परमपुरुषो हरिः । तत्पारं तस्य हरेः पारं अन्तमुपैतुकामैस्तं जिगीषुभिः, अन्यत्र दिदृक्षुभिरित्यर्थः । `तुं काममनसोरपि` इति मकारलोपः । निश्चितैः । योद्धुं कृतनिश्चयैरित्यर्थः । अन्यत्र निश्चिततत्त्वैः । सकर्मकादप्यविवक्षिते कर्मणि क्तः । यद्वा पीता गावः, विभक्ता भ्रातर इत्या दिवदूहयितव्यम् । स्फुटीकृतं चैतद्धण्टापथे `स वर्णिलिङ्गी विदितः` (किरातार्जु नीये ११)इत्यत्र । देहत्यागकृतोद्योगैमरणोद्यतैः । अन्यत्र मुमुक्षुभिरित्यर्थः । योगिभिः संनाहवद्भिपायवद्भिर्वा, अन्यत्र ध्यानवद्भिः । `योगः संनहनोपायध्यानसंगतियुक्तिषु` इत्यमरः । परैः शत्रुभिः, अन्यत्र परमयोगिभिः अदृश्यत । परे षामग्रेऽतिष्ठदित्यर्थः । अन्यत्र साक्षात्कृतः । `तमेव विदित्वातिमृत्युमेति` (श्वेताश्व० ३|८,६।१५) इति श्रुतेः । अर्थान्तरप्रतीतिनिरेव न श्लेषः । अभिधायाः प्रकृतार्थे नियन्त्रणात्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पै तु का मै स्त त्पा रं
नि श्चि तै र्यो गि भिः रैः
दे त्या कृ तो द्यो गै
दृ श्य रः पु मान्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.