विभावी विभवी भाभो विभाभावी विवो विभीः ।
भवाभिभावी भावावो भवाभावो भुवो विभुः ॥

मल्लिनाथः विभावीति ॥ विभावोऽस्यास्तीति विभावी प्रभावसंपन्नः विभवोऽस्यास्तीति विभवी ऐश्वर्यवान् भस्य आभेवाभा यस्य स भाभः । नक्षत्रवदुज्वल इत्यर्थः । विभां विशिष्टाभां भावयति संपादयति विश्वस्येति विभाभावी । `तस्य भासा सर्वमिदं विभाति` (मुण्डकोपनिषत् पा.२।२।१०) इति श्रुतेः । भुवो प्यन्ताण्णिनिः । विना पक्षिणा वाति गच्छतीति विवः । पक्षिवाहन इत्यर्थः । `आतोऽनुपसर्गे कः` (अष्टाध्यायी ३.२.३ ) । विभीर्निर्भीकः । भवं संसारमभिभवतीति भवाभिभावी । भक्तानां संसारनिवर्तक इत्यर्थः । भुवो णिनिः । भावाञ्जन्तूनवतीति भावावः विश्वत्राता । `भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु` इति वैजयन्ती । अवतेः कर्मण्यण् । भवाभावोऽस्यास्तीति । संसारदुःखैरस्पृष्ट इत्यर्थः । अर्श-आदित्वादच्प्रत्ययः । भुवो भूमेः विभुर्भर्ता
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वि भा वी वि वी भा भो
वि भा भा वी वि वो वि भीः
वा भि भा वी भा वा वो
वा भा वो भु वो वि भुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.