नीलेनानालनलिननिलीनोल्ललनालिना ।
ललनालालनेनालं लीलालोलेन लालिना ॥

मल्लिनाथः नीलेनेति ॥ पुनः कीदृशेन वपुषा । नीलेन श्यामलेन तथाऽनालं नालरहितं यन्नलिनं तत्र निलीना आसन्नाः उल्ललन्तीत्युल्ललनाश्वलाश्चालयो यस्य तेन अनालनलिननिलीमोल्ललनालिना । मुखसौरभलोभपरिभ्रमद्भ्रमरणेत्यर्थः । ललनानां विलासिनीनां स्त्रीणां लालनेन उपलालनेन । वशीकरणेनेत्यर्थः । अलमत्यन्तं लीलालोलेन क्रीडालोलुपेन । `लीलालानेन` इति पाठे लीलानां बिलासानामालानेन । आलयेनेत्यर्थः । लालयति भक्तानिति लालिना । भक्तानुकम्पिनेत्यर्थः । द्व्यक्षरानुप्रासोऽलंकारः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नी ले ना ना लि
नि ली नो ल्ल ना लि ना
ना ला ने ना लं
ली ला लो ले ला लि ना
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.