अथ वक्षोमणिच्छायाच्छुरितापीतवाससा ।
स्फुरदिन्द्रधनुर्भिन्नतडितेव तडित्त्वता ॥

मल्लिनाथः &#३२; अथेति ॥ अथ चैद्यजयानन्तरं वपुषा राजन्परः पुमानदृश्यतेति पञ्चमेन संबन्धः । तद्वपुस्तावत्त्रिभिर्विशिनष्टि-वक्षोमणेः कौस्तुभस्य छायया छुरितानि व्याप्तान्यापीतवासांसि पीताम्बराणि यस्य तेन । अत एव स्फुरता इन्द्रधनुषा भिन्नाः संगतास्तडितो यस्य तेन तडित्त्वता मेघेनेव स्थितेनेत्यर्थः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्षो णि च्छा या
च्छु रि ता पी वा सा
स्फु दि न्द्र नु र्भि न्न
डि ते डि त्त्व ता
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.