युद्धमित्थं विधूतान्यमानवानभियो गतः ।
चैद्यः परान्पराजिग्ये मानवानभियोगतः ॥

मल्लिनाथः युद्धमिति ॥ मानवानभिमानवान् चैद्यो युद्धं गतः प्राप्तः सन् इत्थं विधूता अभिभूता अन्ये चैद्यातिरिक्ता मानवा यैस्तान् । विधूतान्यमानवान् अभियः निर्भीकान्परानरीन् अभियोगतोऽभियोगादभ्यवरोधात्पराजिग्ये । जिगायेत्यर्थः । `विपराभ्यां जेः` (१|३|१९) इत्यात्मनेपदम् । `सन्लिटोर्जेः` (७३।५७) इति कुत्वम्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यु द्ध मि त्थं वि धू ता न्य
मा वा भि यो तः
चै द्यः रा न्प रा जि ग्ये
मा वा भि यो तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.