बन्धौ विपन्नेऽनेकेन नरेणेह तदन्तिके ।
अशोचि सैन्ये घण्टाभिर्न रेणे हतदन्तिके ॥

मल्लिनाथः बन्धाविति ॥ इह सैन्ये बन्धौ विपन्ने मृते सति अनेकेन नरेण । अनेकैर्नरैरित्यर्थः । जातावेकवचनम् । तदन्तिके तस्य मृतस्य बन्धोरन्तिके अशोचि । किंच हता दन्तिनो यत्र तस्मिन् हतदन्तिके सैन्ये घण्टाभिर्न रेणे न दध्वने । रणतेर्भावे लिट् । अत्र हतदन्तिके इति विशेषणगत्या घण्टानामरणनहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गं यमकेन संसृज्यते
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्धौ वि न्ने ऽने के
रे णे न्ति के
शो चि सै न्ये ण्टा भि
र्न रे णे न्ति के
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.