चित्रं चापैरपेतज्यैः स्फुरद्रक्तशतहृदम् ।
पयोदजालमिव तद्वीराशंसनमाबभौ ॥

मल्लिनाथः चित्रमिति ॥ अपेतज्यैरपगतमौर्वीकैः । `मौर्वी ज्या शिकञ्जिनी गुणः` इत्यमरः । चापैश्चित्रं विचित्रम् । स्फुरन्ति रक्तान्येव शतहृदाः शम्पा यस्मिंस्तत् । `शम्पा शतह्रदा ह्रादिनी` इत्यमरः । तत्प्रकृतं वीर आशंस्यतेऽत्रेति वीराशंसनं भयंकरा युद्धभूमिः । `सा वीराशंसनं युद्धभूमिर्याऽतिभयप्रदा` इत्यमरः । पयोदजालमिवाबभौ
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
चि त्रं चा पै पे ज्यैः
स्फु द्र क्त हृ दम्
यो जा मि
द्वी रा शं मा भौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.