असृग्जनोऽस्त्रक्षतिमानवमज्जवसादनम् ।
रक्षःपिशाचं मुमुदे नवमज्जवसादनम् ॥

मल्लिनाथः असृगिति ॥ अस्त्रक्षतिमानस्त्रप्रहारवान् जनो वीरजनोऽसृग्रक्तं जवसादनं जवस्य चेष्टावेगस्य सादनं सादकं यथा स्यात्तथा अवमत् । नवयोर्मज्जवसयोर्मेदो रसयोरदनं भक्षकम् । कर्तरि ल्युट् । रक्षांसि च पिशाचाश्च रक्षःपिशाचम् । समाहारे द्वन्द्वैकवद्भावः । मुमुदे जहर्ष । अत्र मोदस्य वमनवाक्यार्थहेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गं, तञ्च यमकेन संसृज्यते
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सृ ग्ज नो ऽस्त्र क्ष ति मा
ज्ज सा नम्
क्षः पि शा चं मु मु दे
ज्ज सा नम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.