Loading data... On slow networks this could take a few minutes.
100%

निपातितसुहृत्स्वामिपितृव्यभ्रातृमातुलम् ।
पाणिनीयमिवावलोकि धीरैस्तत्समराजिरम् ॥

मल्लिनाथः निपातितेति ॥ निपातिता वीरशय्यां गमिताः सुहृदादयो यत्र तत्तथोक्तम् । अभिमुखबन्धोरपि रणे वध्यत्वादिति भावः । अन्यत्र निपातिताः लक्षणाभावे शब्दसाधुत्वाय सूत्रकृता सूत्रस्वरूपेणोच्चारिताः सुहृदादिशब्दा यत्र तदित्यर्थः । अत एव तत्समराजिरं रणाङ्गणम् । पाणिनिना प्रोक्तं पाणिनीयमष्टाध्यायीव्याकरणमिव । तेन प्रोक्तम्` (अष्टाध्यायी ४.३.१०१ ) इति छप्रत्ययः । धीरैर्धृष्टैरेवालोकि दृष्टम् । उभयत्रापि धीरैर्दुरवगाहत्वादिति भावः । शोभनं हृदयं यस्य स सुहृत् । `सुहृद्दुहृदौ मित्रामित्रयोः` (अष्टाध्यायी ५.४.१५० ) इति हृदयशब्दस्य हृद्भावो निपातितः । स्वमस्यास्तीति स्वामी ईश्वरः । `स्वामिन्नैश्वर्ये` (अष्टाध्यायी ५.२.१२६ ) इति मत्वर्थीयनिपातः । `पितुर्धाता पितृव्यः स्यान्माता तु मातुलः` इत्यमरः । `पितृव्यमातुलमातामहपितामहाः` (अष्टाध्यायी ४.२.३६ ) इति व्यडुलजन्तनिपाताः । बिभर्तीति भ्राता । नप्तृनेष्ट्रादिसूत्रादौणादिको निपातः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नि पा ति सु हृ त्स्वा मि
पि तृ व्य भ्रा तृ मा तु लम्
पा णि नी मि वा लो
कि धी रै स्त त्स रा जि रम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.