Loading data... On slow networks this could take a few minutes.
100%

अभावि सिन्ध्वा सन्ध्याभ्रसदृग्रुधिरतोयया ।
हृते योद्धुं जनः पांशौ स दृग्रुधि रतो यथा ॥

मल्लिनाथः अभावीति ॥ संध्याभ्रसदृक् संध्यामेघसदृशं रुधिरमेव तोयं यस्यास्तया सिन्ध्वा रक्तनद्या अभावि भूतम् । भावे लुङि चिण् । यया सिन्धवा दृशो रुणद्धीति युधि दृष्टिरोधके । रुधेः क्विप् । पांशौ रजसि हृते सति स जनो वीरलोको योद्धुं रत उत्सुकः । अभूदिति शेषः । उपमायमकयोः संसृष्टिः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
भा वि सि न्ध्वा न्ध्या भ्र
दृ ग्रु धि तो या
हृ ते यो द्धुं नः पां शौ
दृ ग्रु धि तो था
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.