येनाङ्गमूहे व्रणवत्सरुचा परतोऽमरैः ।
समत्वं स ययौ खड्गत्सरुचापरतोऽमरैः ॥

मल्लिनाथः येनाङ्गमिति ॥ रुचा सह वर्तते यस्तेन सरुचा तेजस्विना येन वीरेण परतो ऽमरैः शत्रुशस्त्रैः व्रणवत्सत्रणमङ्गमूहे ऊढम् । वहेः कर्मणि लिट् संप्रसारणम् । खड्गत्सरौ खड्गमुष्टौ चापे च रतः खड्गत्सरुचापरतः । खङ्गेषुप्रहारेण युद्धं कुर्वनित्यर्थः । `त्सरु: खड्गादिमुष्टौ स्यात्` इत्यमरः । स वीरोऽमरैः समत्वं ययौ । पौरुषेणेति भावः । उपमायमकयोः संसृष्टिः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ये ना ङ्ग मू हे व्र
त्स रु चा तो ऽम रैः
त्वं यौ ड्ग
त्स रु चा तो ऽम रैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.