Loading data... On slow networks this could take a few minutes.
100%

शरक्षते गजे भृङ्गैः सविषादिविषादिनि ।
रुतव्याजेन रुदितं तत्रासीदतिसीदति ॥

मल्लिनाथः शरक्षते इति ॥ गजे शरेण क्षते प्रहते अत एव विषादिना विषादवता विषादिना यन्त्रा सह वर्तते इति तस्मिन् सविषादिविषादिनि तत्र रणे अतिसीदति अतिसन्ने सति । मृते सतीत्यर्थः । सदेर्लटः शत्रादेशः । भृङ्गैः कर्तृभिः । `न लोका-` (अष्टाध्यायी २.३.६९ ) इत्यादिना षष्ठीप्रतिषेधः । रुतव्याजेन रुतच्छलेन रुदितं रोदनमासीत् । स्वाश्रयनाशदुःखाद्रोदनं कृतमिवेत्युत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या । सा च रुतव्याजेनेत्यपह्रवपूर्वकत्वात्सापह्नवेति सर्वस्वकारः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्ष ते जे भृ ङ्गैः
वि षा दि वि षा दि नि
रु व्या जे रु दि तं
त्रा सी ति सी ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.