रणाङ्गणं सर इव प्लावितं मदवारिभिः ।
गजः पृथुकराकृष्टशतपत्रमलोडयत् ॥

मल्लिनाथः रणेति ॥ गजो मदवारिणा प्लावितमुक्षितं रणाङ्गणं सर इव पृथुना करेणाकृष्टानि शतपत्राणि अमितवाहनानि, अन्यत्र कुशेशयानि च यस्मिन्कर्मणि तत्तथा रणाङ्गणमलोडयदुपाक्षोभयत् । श्लेषविशेषणेयमुपमा
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
णा ङ्ग णं
प्ला वि तं वा रि भिः
जः पृ थु रा कृ ष्ट
त्र लो यत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.