अन्तकस्य पृथौ तत्र शयनीय इवाहवे ।
दशनव्यसनादीयुर्मत्कुणत्वं मतङ्गजाः ॥

मल्लिनाथः अन्तकस्येति ॥ अन्तकस्य मृत्योः संबन्धिनि शेतेऽस्मिन्निति शयनीये । तल्प इव स्थिते इत्यर्थः । `कृत्यल्युटो बहुलम्` (अष्टाध्यायी ३.३.११३ ) इत्यधिकरणेऽनीयर् । पृथौ विशाले तत्राहवे मतङ्गजा दन्तव्यसनाद्विषाणभङ्गाद्धेतोः मत्कुणत्वमीयुः । मत्कुणा इव दृष्टा इत्यर्थः । सुप्तरक्तपायिनः खट्वाश्रयाः कीटविशेषा मत्कुणाः । `कालेऽप्यजातदन्ते च शय्याजन्तौ च मत्कुणः` । तत्सादृश्याददन्तेषु दन्तिषु तथात्वरूपकं अन्तकस्य शयनीय इवेत्युप्रेक्षासापेक्षमपि संकरः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्त स्य पृ थौ त्र
नी वा वे
व्य ना दी यु
र्म त्कु त्वं ङ्ग जाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.