कृत्वा शिनेः शाल्वचमूं सप्रभावा चमूर्जिताम् ।
ससर्ज वक्त्रैः फुल्लाब्जसप्रभा वाचमूर्जिताम् ॥

मल्लिनाथः कृत्वेति ॥ प्रभावेण सह वर्तत इति सप्रभावा महानुभावा शिनेः सात्यकिपितामहस्य चमूः सेना। शाल्वो नाम चैद्यपक्षो राजा तस्य चमूं सेनां जितां कृत्वा । जित्वेत्यर्थः । अत एव वक्त्रैर्मुखैः । येनाङ्गविकारः` (अष्टाध्यायी २.३.२० ) इति तृतीया । विकासस्यापि विकारत्वात् । फुल्लाब्जस्य प्रफुल्लारविन्दस्य सप्रभा समानप्रभा । हर्षेण विकासितवक्त्रा सतीत्यर्थः । ऊर्जितामुदारां वाचं ससर्ज के यूयमस्मदग्र इत्याधुच्चैर्जगर्ज । जगादेत्यर्थः । उपमायमकयोः संसृष्टिः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
कृ त्वा शि नेः शा ल्व मूं
प्र भा वा मू र्जि ताम्
र्ज क्त्रैः फु ल्ला ब्ज
प्र भा वा मू र्जि ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.