Loading data... On slow networks this could take a few minutes.
100%

दिशमर्कमिवावाचीम्मूर्च्छागतमपाहरत् ।
मन्दप्रतापं तं सूतः शीघ्रमाजिविहायसः ॥

मल्लिनाथः दिशमिति ॥ मूर्छागतं रामेषुपातान्मोहमुपगतम् । अत एव मन्दप्रतापमल्पप्रकाशं तं वेणुदारिणमवाचीं दक्षिणां दिशं प्राप्तम् । अत एव मन्दप्रतापमर्कमिव सूतः सारथिरनूरुश्च आजेविहायसः आकाशादिवाजिविहायस इत्युपमितसमासः ।शीघ्रमपाहरदपसारितवान् । उपमा
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दि र्क मि वा वा ची
म्मू र्च्छा पा रत्
न्द प्र ता पं तं सू तः
शी घ्र मा जि वि हा सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.