उल्मुकेन द्रुमं प्राप्य संकुचत्पत्रसंपदम् ।
तेजः प्रकिरता दिक्षु सप्रतापमदीप्यत ॥

मल्लिनाथः उल्मुकेनेति ॥ दिक्षु तेजः प्रभावं प्रकाशं च प्रकिरता विक्षिपता उल्मुकेन भागवतेन राज्ञा, अलातेन च संकुचन्ती पत्रसंपद्वाहनसंपत्, पर्णसमृद्धिश्च यस्य तम् । सप्रतापं सपराक्रमं, प्रकटतापसंहितं च । द्रुमं द्रुमाख्यं राजानं, वृक्षं च प्राप्यादीप्यत प्रजज्वले । भावे लङ् । अत्राभिधायाः प्रकृतार्थे नियन्त्रणादप्रकृतार्थप्रतीतिर्ध्वनिरेव न श्लेषः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ल्मु के द्रु मं प्रा प्य
सं कु त्प त्र सं दम्
ते जः प्र कि ता दि क्षु
प्र ता दी प्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.