निपीडनादिव मिथो दानतोयनारतम् ।
वपुषामदयापातादिभानामभितोऽगलत् ॥

मल्लिनाथः निपीडनादिति ॥ इभानां वपुषां अदयापातान्निर्दयाभियोगाद्धेतोः मिथो निपीडनादिव वस्त्रादिनिपीडनादिवेत्युत्प्रेक्षा । अनारतमश्रान्तं दानतोयमभितोऽगलत् । वस्त्रवन्निर्दयापातेऽपि मदातिरेक इति गजानामुत्साहातिशयोक्तिः । अत्र संयोगाभावादसंयोगश्चित्रभेदः । `हलोऽनन्तराः संयोगः` (१।१७)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नि पी ना दि मि
थो दा तो ना तम्
पु षा या पा ता
दि भा ना भि तो ऽग लत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.