अपादि व्यापृतनयांस्तथा युयुधिरे नृपाः ।
आप दिव्या पृतनया विस्मयं जनता यथा ॥

मल्लिनाथः आपदीति ॥ नृपा राजानः । आपदि व्यसनेऽपि व्यापृतनयाः प्रवृत्तनीतिका एव सन्तः । न तु श्वापदवृत्त्येति भावः । पृतनया सेनया साधनेन । वाक्यान्तरस्थस्यापि पृतनाशब्दस्यात्रान्वयः चित्रे सोढव्यः । तथा तेन प्रकारेण युयुधिरे संप्रजद्दुः । यथा दिव्या जनता अन्तरिक्षवर्तिसिद्धविद्याधरसङ्घो विस्मयमाप । अमानुषं युद्धं चक्रुरित्यर्थः । अयं च पादाभ्यासयमकभेदः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पा दि व्या पृ यां
स्त था यु यु धि रे नृ पाः
दि व्या पृ या
वि स्म यं ता था
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.