स्खलन्ती नक्वचित्तैक्ष्णादभ्यग्रफलशालिनी ।
अमोचि शक्तिः शक्तिकैर्लोहजा न शरीरजा ॥

मल्लिनाथः स्खलन्तीति ॥ शक्तिः प्रहरणं येषां तैः शाक्तीकैः । `शाक्तीकः शक्तिहेतिकः`इत्यमरः । `शक्तियष्ट्योरीकक्` (अष्टाध्यायी १.४.५९ ) इति प्रहरणार्थे ईकक् प्रत्ययः । तैक्ष्ण्यान्नैशित्यात्क्वचिदपि न स्खलन्ती प्रतिहतिं न प्राप्नुवती । अभ्यग्रं समग्रं यत्फलं शल्यं तेन शालते । अन्यत्र अभ्यग्रेणासन्नेन फलेन श्रेयसा शालत इत्यभ्यग्रफलशालिनी । लोहजा अयोमयी शक्तिरायुधविशेषः अमोचि शत्रुषु मुक्ता । शरीरजा शक्तिः सामर्थ्याख्या तु नामोचि । अतिव्यायामेऽप्यक्षीणशक्तिका एवायुध्यन्तेत्यर्थः । अत्र द्वयोरपि प्रकृतत्वात्केवलप्रकृतश्लेषः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्ख न्ती क्व चि त्तै क्ष्णा
भ्य ग्र शा लि नी
मो चि क्तिः क्ति कै
र्लो जा री जा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.