स्वगुणैराफलप्राप्तेराकृष्य गणिका इव ।
कामुकानिव नालीकांस्त्रिणन्ताः सहसामुचन् ॥

मल्लिनाथः स्वगुणैरिति ॥ त्रिषु स्थानेषु मध्येषु नताः त्रिणताः शार्ङ्गाणि । `पूर्वपदात्संज्ञायामगः` (८|४|३) इति णत्वम् । गणिका वेश्या इव । ता अपि त्रिणताः मध्ये भ्रुवोश्च नतत्वात् । नालीकानिषुविशेषान् । `नालीकः शरशल्ययोः` इति विश्वः । कामुकानिव । स्वगुणैार्ज्याभिः रूपलावण्यादिभिश्च । `गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु` इति वैजयन्ती । आफलप्राप्तेराशल्यस्पर्शादाधनलाभाच्च आकृष्य कर्णान्तिकं नीत्वा, वशीकृत्य च सहसा अमुचन्नत्याक्षुः । मुचेर्लुङि `पुषादि-` (३।१|५५) इति च्लेरङादेशः । अनेकैवोपमा
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्व गु णै रा प्रा प्ते
रा कृ ष्य णि का
का मु का नि ना ली कां
स्त्रि न्ताः सा मु चन्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.