मल्लिनाथः
अयश इति ॥ `अयः शुभावहो विधिः` इति अयशोभी भाग्यवान् स चासदुरालोकस्तेजस्वित्वाद्दुर्दर्शश्चेति विशेषणसमासः । तस्मिन्नयशोभिदुरालोके कोपधाम कोपाश्रयः । कुपित इत्यर्थः । अथाप्यकोपे भीरुत्वापातात् । अत एव रणमादृतः रणादृतः । रणार्थीत्यर्थः । कर्तरि क्तः । कोपधाम चासौ रणादृतश्च तस्मिन् कीर्तिनिवर्तिका । `विदिभिदिच्छिदेः कुरच्` । (अष्टाध्यायी ३.२.१६२ ) उपधा उपायोमरणादृते । प्राणत्यागं विनेत्यर्थः । का । न कापीत्यर्थः । `अन्यारादितरते-`(अष्टाध्यायी २.३.२९ ) इति पञ्चमी । अत्रायशोभित्त्वादीनां लोकविशेषणद्वारा तद्वर्तिना&#३२; मुपजीविनामवसरे जीवत्यागहेतुत्वाकाव्यलिङ्गं यमकेन संकीर्यते । समुद्यमकभेदोऽयम् । `अर्धाभ्यासः समुद्गः स्यादस्य भेदास्त्रयो मताः` इति लक्षणात्
छन्दः
अनुष्टुप् [८]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
|---|---|---|---|---|---|---|---|
| अ | य | शो | भि | दु | रा | लो | के |
| को | प | धा | म | र | णा | दृ | ते |
| अ | य | शो | भि | दु | रा | लो | के |
| को | प | धा | म | र | णा | दृ | ते |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.