Loading data... On slow networks this could take a few minutes.
100%

यावन्न सत्कृतैर्भर्तुः स्नेहस्यानृण्यमिच्छुभिः ।
अमर्षादितरैस्तावत्तत्यजे युधि जीवितम् ॥

मल्लिनाथः यावादेति ॥ सत्कृतैः स्वस्वामिना पूर्वसंमानितैः । अत एव भर्तुः स्नेहस्य स्वामिप्रेम्ण आनृण्यमनृणत्वमिच्छुभिः । योधैरिति शेषः । युधि जीवितं यावन्न तत्यजे त्यक्तं तावदितरैरसत्कृतैरमर्षादसत्कारक्रोधाज्जीवितं तत्यजे । अथ वास्मान्पश्येति स्वामिनमुपालभ्य स्वयमेव प्राक्प्राणान्प्रजहुरित्यर्थः । सत्कारादिविशेषणोत्थकाव्यलिङ्गं सुगमम्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
या न्न त्कृ तै र्भ र्तुः
स्ने स्या नृ ण्य मि च्छु भिः
र्षा दि रै स्ता
त्त त्य जे यु धि जी वि तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.