Loading data... On slow networks this could take a few minutes.
100%

रणे रभसनिर्भिन्नद्विपपाटविकासिनि ।
न तत्र गतभीः कश्चिद्विपपाट विकासिनि ॥

मल्लिनाथः रण इति ॥ रभसेन वेगेन `रभसो वेगहर्षयोः` इति विश्वः । निर्भिन्नद्विपाः पाटितगजाः पाटविकानां पाटववतामसयो यस्मिन् । पाटवशब्दान्मत्वर्थीयष्ठक्प्रत्ययः । विकासिनि प्रवृद्धे तत्र तस्मिन् रणे गतभीर्निर्भीकः । अत एव कश्चित् कोऽपि न विपपाट न पाटयामास न पलायत । अत्र गतभीकत्वस्य विशेषणगत्या अपलायनहेतुत्वात्काव्यलिङ्गम् । द्विपदलनेऽपि रणे निर्भीक इति विरोधश्च यमकेन संसृज्यते
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
णे नि र्भि न्न
द्वि पा वि का सि नि
त्र भीः श्चि
द्वि पा वि का सि नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.