Loading data... On slow networks this could take a few minutes.
100%

दन्तौश्चिच्छिदिरे कोपात्प्रतिपक्षं गजा इव ।
परनिस्त्रिंशनिर्लूनकरवालाः पदातयः ॥

मल्लिनाथः दन्तैरिति ॥ परेषां निस्त्रिंशैः खड्गै: निर्लनकरवालाः छिन्नखड्गाः पादाभ्यामतन्तीति पदातयः पत्तयः । `अज्यतिभ्यां पादे च` (उ० ५७०) इत्यौणादिक इण्, `पादस्य पदाज्यातिगोपहतेषु` (अष्टाध्यायी ६.३.५२ ) इति पदादेशः । कोपात् गजा इव प्रतिपक्षं शत्रुं दन्तैर्दशनैर्विषाणैश्च चिच्छिदिरे चिच्छिदुः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्तौ श्चि च्छि दि रे को पा
त्प्र ति क्षं जा
नि स्त्रिं नि र्लू
वा लाः दा यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.