भीमतामपरोऽम्भोधिसमेऽधित महाहवे ।
दाक्षे कोपः शिवस्येव समेधितमहा हवे ॥

मल्लिनाथः भीमेति ॥ अम्भोधिसमे सागरसदृशे महानाहवस्तस्मिन्महाहवे सम्यगेधितमहाः संवर्धिततेजाः अपरो वीरः दक्षप्रजापतेरयं दाक्षस्तस्मिन्दाक्षे हवे यज्ञे । `हवो यज्ञे तथाह्वाने` इति विश्वः । समेधितमहाः संदीपिततेजाः शिवस्य कोप इव । वीरभद्र इवेत्यर्थः । भीमतां भयंकरतामधित धृतवान् । बिभ्यत्यस्मादिति भीमः । `भियः षुग्वा` (उ० १४५) इत्यौणादिके मप्रत्यये भीमो भीष्मश्च `भीमादयोऽपादाने` (अष्टाध्यायी ३.४.७४ ) इति निपातनादपादानार्थता । उपमायमकयोः संसृष्टि
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
भी ता रो ऽम्भो धि
मे ऽधि हा वे
दा क्षे को पः शि स्ये
मे धि हा वे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.