द्विषद्विशसनच्छेदनिरस्तोरुयुगोऽपरः ।
सिक्तश्चास्त्रैरुभयथा बभूवारुणविग्रहः ॥

मल्लिनाथः द्विषदिति ॥ द्विषद्विशसनम् । `निर्वापणं विशसनं मारणं प्रतिघातनम्` इत्यमरः । तस्मिंश्छेदेनारिशस्त्रप्रहारेण निरस्तमूरुयुगं यस्य सः अत एवात्रैरसृग्भिश्च सिक्तोऽपरो वीरः उभयथा उभाभ्यां प्रकाराभ्याम् । `प्रकारे गुणवचनस्य` (८११।१२) इति थाल् । अरुणस्यानूरोरिव अरुणोऽरुणवर्णश्च विग्रहो यस्य सोऽरुणविग्रहो बभूव । `अरुणोऽर्कार्कसारथ्योररुणो लोहितेऽन्यवत्` इति विश्वः । अत्रोरुच्छेदास्रसिक्तयोर्विशेषणगत्योभयथारुणविग्रहभावहेतुत्वात्काव्यलिङ्गमुपमाश्लेषाभ्यां संकीर्यते
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
द्वि द्वि च्छे
नि स्तो रु यु गो ऽप रः
सि क्त श्चा स्त्रै रु था
भू वा रु वि ग्र हः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.