शस्त्रव्रणमयश्रीमदलङ्करणभूषषितः । ददृशेऽन्यो रावणवदलङ्करणभूषितः ॥

मल्लिनाथः शस्त्रेति ॥ शस्त्रव्रणमयानि तद्रूपाणि । स्वार्थे मयट् । तैरेव श्रीमद्भिः शोभावद्भिरलंकरणैरलंकारैर्भूषितोऽलंकृतः । शस्त्रव्रणालंकृत इत्यर्थः । अन्यः कश्चित् , अविद्यमाना लङ्का यस्याः सा अलङ्केति बहुव्रीहिः । अत एव `स्त्रियाः पुंवत्-` (अष्टाध्यायी ६.३.३४ ) इत्यादिना पुंवद्भावः । सा रणभूश्च तस्यामुषितः स्थितोऽलङ्करणभूषितः । वसेर्निवासार्थात्कर्तरि क्तः `वचिस्वपि-` (अष्टाध्यायी ६.१.१५ ) इत्यादिना संप्रसारणम् । रावणवद्ददृशे दृष्टः । सर्वाङ्गीणव्रणभूषणत्वेन रावण एवायं लङ्कासंबन्धविरहात्तु व्यतिरेक इत्यर्थः । उपमाव्यतिरेकयमकानां संकरः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.