भवन्भवाय लोकानामाकम्पितमहीतलः ।
निर्घात इव निर्घोषभीमस्तस्यापतद्रथः ॥

मल्लिनाथः भवन्निति ॥ लोकानां जनानां, जगतां च। `लोकस्तु भुवने जने` इत्यमरः । भयाय भवनसंपद्यमानः । भयं जनयन्नित्यर्थः । `क्लृपि संपद्यमाने च` (वा०) इति क्लृपेरर्थनिर्देशाच्चतुर्थी । आकम्पितमहीतलः । भूकम्पं कुर्वन्नित्यर्थः । निर्घोषेण भीमो भयंकरः तस्य बलभद्रस्य रथो निर्घात इवापतदधावत् । श्रौती पूर्णोपमा
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्भ वा लो का ना
मा म्पि ही लः
नि र्घा नि र्घो
भी स्त स्या द्र थः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.