मल्लिनाथः
॥ एकाक्षरपादः ॥ जजाविति ॥ ततोऽवलोकनानन्तरं जजन्तीति जजा योधाः । `जज युद्धे` पचाद्यच् । जजानामोजसा जाता जजौजोजा तामाजिं जयतीति जजौजोजाजि जित् । जयतेः क्विप् । जजतीति जाजी योधी । ताच्छील्ये णिनिः । अतिततानत्युद्धतानतितुदति अतिव्यथयतीत्यतितुत् । तुदतेः क्विप् । भस्याभेवामा यस्य स भाभो नक्षत्रकान्तिः । `नक्षत्रमृक्षं भं तारा` इत्यमरः । नास्ति भीर्येषां तेऽभियो निर्भीकाः तानिभान्गजानभिभवतीति अभीभाभिभूः । क्विप् । तस्याः भासस्तेजसो भूः स्थानम् अभीभाभिभूभाभूः । अराः सन्त्येषामित्यरीणि चक्राणि तैः रीणन्ति गच्छन्तीति अरिरियो रथाः । `री गतिश्लेषणयोः` इति धातोः क्विप् । तेषां ईरं प्रेरणं राति अरिरीररो रथिकः । `आतोऽनुपसर्गे कः` (अष्टाध्यायी ३.२.३ ) अरिः शत्रुर्बलभद्गः तं वेणुदारिणं आर । योद्धुमाससारेत्यर्थः । `ऋ गतौ` इति धातोर्लिट् द्विर्भावे कृते णलि वृद्धिः अभ्यासस्योरदत्वे `अत आदेः` (अष्टाध्यायी ७.४.७० ) इति दीर्घ पुनः सवर्णदीर्घः । भिन्नैकाक्षरपादाख्योऽनुप्रासभेदः । भाभ इत्युपमानुप्रासयोरेकवाचकानुप्रवेशलक्षणसंकरः
छन्दः
अनुष्टुप् [८]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० |
|---|---|---|---|---|---|---|---|---|---|
| ज | जौ | जो | जा | जि | जि | ज्जा | जी | ||
| तं | त | तो | ऽति | त | ता | ति | तुत् | ||
| भा | भो | ऽभी | भा | भि | |||||
| भू | भा | रा | रा | रि | र | रि | री | र | रः |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.