Loading data... On slow networks this could take a few minutes.
100%

सासेनागमनारम्भे रसेनासीदनारता ।
तारनादजनामत्त धीरनागमनामया ॥

मल्लिनाथः सा सेनेति ॥ तारोऽत्युच्चैर्नादः सिंहनादो येषां ते जना यस्यां सा तारनादजना अनामया अव्यथा सा पूर्वोक्ता सेना मत्ता धीरा अदुष्टाश्च नागा गजा यस्मिन्कर्मणि तत्तथा गमनारम्भे रसेन रागेण अनारता अविरता आसीत् । अविच्छिन्नरणरागाभूदित्यर्थः । मुरजबन्धः । तस्योद्धारस्तु-`तिर्यग्रेखा लिखेत्पञ्च नवोर्ध्वास्तत्र पङ्तयः । अष्टकोष्टाश्चतस्रः स्युस्तासु श्लोकं लिखेत्क्रमात् ॥ तत्राद्यद्वित्रितुर्यासु तुर्यत्रियाद्यपङ्तिषु । आद्यद्वित्रिचतुःपञ्चषट्सप्ताष्टमकोष्टगः । दृश्यते प्रथमः पादश्चतुर्थश्चैवमेव हि । चतुर्थपङ्तिप्राथम्यात्प्रथमावधिवीक्षणात् । द्वितीयादावाद्यद्वित्र्योर्द्वितुर्ये त्रितुरीयके । तुर्यत्रियोस्तृतीयाद्ये द्रष्टव्योऽनिर्द्वितीयकः ॥ तृतीयोऽङ्घ्रिर्द्वितीयान्त्ये आद्यसप्तमषष्ठयोः । द्वित्रिपञ्चमयोस्तुर्यषष्ठसप्तमयोः क्रमात् । तृतीयान्त्ये च लक्ष्योऽयमथान्यः क्रम उच्यते ॥ आद्यन्त्ययुग्मयोः पपङ्तयोश्चिन्त्यो गोमूत्रिकाक्रमः । कृत्वैकं द्वितयं द्वे च द्वयमेकमिति क्रमात् ॥ यद्वा द्वितयमेकं च द्वयमेकं द्वयं पुनः । स्वपङ्तिप्रक्रमादेव विन्यासद्वितयं भवेत् । यद्वा प्रथमतुर्याङ्घ्री स्वपङ्तयोस्तदनुक्रमात् । द्वितीयोऽङ्घ्रिर्द्वितीयस्यां क्रमादाद्यचतुष्टये ॥ व्युत्क्रमाच्च तृतीयस्यामाद्यमेव चतुष्टये । व्युत्क्रमेण द्वितीयस्यां तृतीयस्यां क्रमेण च ॥ द्रष्टव्यो हि तृतीयोऽङ्घ्रिरन्त्यकोष्ठचतुष्टये । विन्यासभेदास्त्वन्येऽपि सन्त्येव बहवोऽत्र हि ॥ विस्तरात्तु न लिख्यन्ते स्वयमूह्या विचक्षणैः ॥` इति कलापकम्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सा से ना ना म्भे
से ना सी ना ता
ता ना ना त्त
धी ना ना या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.