Loading data... On slow networks this could take a few minutes.
100%

लोलासिकालियकुला यमस्यैव स्वसा स्वयम् ।
चिकीर्षुरुल्लसल्लोहवर्मश्यामा सहायताम् ॥

मल्लिनाथः लोलेति ॥ लोलान्यसीनामेव कालियानां कृष्णसर्पविशेषाणां कुलानि यस्यां सा उल्लसद्भिर्लोहवर्मभिरयःकञ्चुकैः श्यामा अत एव यमस्यान्तकस्य सहायतां भ्रातृस्नेहादस्मिन्सेनासंहारे साहाय्यं चिकीर्षुः स्वयं साक्षात्स्वसा तस्यैव भगिनी यमुनैव स्थितेत्युप्रेक्षा
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
लो ला सि का लि कु ला
स्यै स्व सा स्व यम्
चि की र्षु रु ल्ल ल्लो
र्म श्या मा हा ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.