Loading data... On slow networks this could take a few minutes.
100%

सकारनानारकास कायसाददसायका ।
रसाहवावाहसार नादवाददवादना ॥

मल्लिनाथः सकारेति ॥ पुनः कीदृशी । `कारो वधे निश्चये च बले यत्ने रतावपि` इति विश्वः । सकाराः सयत्नाः सोत्साहाः नाना नानाविधाश्च ये आरा अरीणां समूहाः । `भिक्षादिभ्योऽण्` (अष्टाध्यायी ४.२.३८ ) । तेषां कासा गतिभेदाः काया विग्रहाश्च तेषां सादं ददतीति साददाः नाशकारकाः सायका यस्यां सा तथोक्ता । रसेन रागेणाहवो यस्याः सा रसाहवा । रणरागिणीत्यर्थः । वाहसाराणां वाहश्रेष्टानां ये नादा ह्रेषादिघोषास्तेषां वादं कलहं ददतीति वाददानि तैः सह कलहायमानानि वादनानि वाद्यानि यस्यां सा वाहसारनादवाददवादना । तूर्यतुल्यवाहघोषेत्यर्थः । अत एव तेषां तुल्यतोक्तेरतिशयोक्तिः । सर्वतो भ्रमणात् सर्वतोभद्राख्यश्चित्रबन्धः । अत एव दण्डी `तदिष्टं सर्वतोभद्रं भ्रमणं यदि सर्वतः` इति । उद्धारस्तु-चतुःषष्टिकोष्ठे चतुरङ्गबन्धे क्रमेणाद्यपङ्क्तिचतुष्टये पादचतुष्कं विलिख्यानन्तरं पङ्क्तिचतुष्टयेऽप्यधः क्रमेण पादचतुष्टयलेखने प्रथमासु चतसृषु प्रथमपादः सर्वतो वाच्यते । एवं द्वितीयादिषु द्वितीय इत्यादि
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
का ना ना का
का सा सा का
सा वा वा सा
ना वा वा ना
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.