Loading data... On slow networks this could take a few minutes.
100%

इत्यालिङ्गतामालोक्य जयलक्ष्म्या झषध्वजम् ।
क्रुद्धयेव क्रुधा सद्यः प्रपेदे चेदिभूपतिः ॥

मल्लिनाथः इतीति ॥ इतीत्थं जयलक्ष्म्या आलिङ्गितं झषध्वजं मत्स्यकेतुं प्रद्युम्नम् । `पृथुरोमा झषो मत्स्यः` इत्यमरः । आलोक्य सद्यः क्रुद्धया सपत्यागमाकोपितयेवेत्युत्प्रेक्षा । क्रुधा प्रद्युम्नाश्रितया रुषा काञ्र्या चेदिभूपतिः प्रपेदे प्राप्तः । विहायेति शेषः । कामिन्यः प्रायेण साहसिक्यः सपत्नीगन्धमसहमानाः सद्यः पुरुषान्तरमाश्रयन्त इति भावः । विजयिनं प्रद्युम्नं दृष्ट्वा सद्यश्चैद्यश्रुकोपेत्यर्थः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्या लि ङ्ग ता मा लो क्य
क्ष्म्या ध्व जम्
क्रु द्ध ये क्रु धा द्यः
प्र पे दे चे दि भू तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.