सादरं युद्धमानापि तेनान्यनरसादरम् ।
सा दरं पृतना निन्ये हीयमाना रसादरम् ॥

मल्लिनाथः सादरमिति ॥ सादरं साभिनिवेशं युध्यमानापि संग्रहरन्त्यपि अरं द्रुतम् । हठादिति यावत् । रसाद्रणे रागात् हीयमाना अपकृष्यमाणा । प्रद्युम्नमहिन्नेति भावः । अत एवात्र विरोधाभासोऽलंकारः । जहातेः कर्मणि लिटः शानजादेशः । सा पृतना चैद्यसेना तेन प्रद्युम्नेन अन्येषां तटस्थानामपि नराणां सादं निश्चेष्टतां राति ददातीति अन्यनरसादरम् । `आतोऽनुपसर्गे कः` (अष्टाध्यायी ३.२.३ ) इति कप्रत्ययः । दरं भयम् । `दरोऽस्त्रियां भये श्वभ्रे` इत्यमरः । निन्ये नीता । नयतेः प्रधाने कर्मणि लिट् । `प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्` इति वचनात् विरोधाभासयमकयोः संसृष्टिः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सा रं यु द्ध मा ना पि
ते ना न्य सा रम्
सा रं पृ ना नि न्ये
ही मा ना सा रम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.