Loading data... On slow networks this could take a few minutes.
100%

अहितानभि वाहिन्या स मानी चतुरङ्गया ।
चचाल वल्ल्गत्कलभसमानीचतुरङ्गया ॥

मल्लिनाथः अहितानिति ॥ मानी अभिमानवान् स क्रुद्धश्चैद्यः वल्गन्तः प्लवमानाः कलभसमाः कलभप्रमाणाः अत एवानीचा उच्चास्तुरङ्गा यस्यां तया वलगत्कलभसमा.&#३२; &#३२; नीचतुरङ्गया । चत्वार्यङ्गानि हस्त्यादीनि यस्यास्तया चतुरङ्गया वाहिन्या करणेन अहितानभि शत्रून्प्रति चचाल । कलभसमेत्युपमा यमकेन संसृज्यते
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हि ता भि वा हि न्या
मा नी तु ङ्ग या
चा ल्ल्ग त्क
मा नी तु ङ्ग या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.